|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.4. अध्यायः 004
अश्वमेधपर्व ॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Topics
व्यासेन युधिष्ठिरंप्रति संवर्तमरुत्तीयोपाख्यानकथनारम्भः॥ 1 ॥ मरुत्तेन राज्ञा हिमवदुत्तरपार्श्वे सौवणैंरेव कुण्डभाडाद्युपकरणैर्यज्ञारम्भः॥ 1 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
युधिष्ठिर उवाच।
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम्।
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ॥ 14-4-1(92432)
व्यास उवाच। 14-4-2x(7734)
आसीत्कृतयुगे तात मनुर्दण्डिधरः प्रभुः।
तस्य पुत्रो महोष्वासः प्रजातिरभवन्नृपः॥ 14-4-2(92433)
प्रजातेरभवत्पुत्रः क्षुत इत्यभिविश्रुतः।
क्षुतस्य पुत्र इक्ष्वाकुर्महीपालोऽभवत्प्रभुः॥ 14-4-3(92434)
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम्।
तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः॥ 14-4-4(92435)
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम्।
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत॥ 14-4-5(92436)
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च।
सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः॥ 14-4-6(92437)
दानधर्मरताः शान्ताः सततं प्रियवादिनः।
तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत्॥ 14-4-7(92438)
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम्।
नाशकद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः॥ 14-4-8(92439)
तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम्।
अभ्यषिञ्चन्त राजेन्द्र मुदिता ह्यभवंस्तदा॥ 14-4-9(92440)
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं च तत्।
नियतो वर्तयामास प्रजाहितचिकीर्षया॥ 14-4-10(92441)
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः।
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम्॥ 14-4-11(92442)
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम्।
तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन्॥ 14-4-12(92443)
स पीड्यमानो बहुभिः क्षीणकोशाश्ववाहनः।
आर्तिमार्च्छत्परां राजा सह भृत्यैः पुरेण च॥ 14-4-13(92444)
न चैनमभिहन्तुं ते शक्नुवन्ति बलक्षये।
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर॥ 14-4-14(92445)
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः।
ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम्॥ 14-4-15(92446)
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान्।
एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः॥ 14-4-16(92447)
आवीक्षित्तस्य पुत्रोऽभूत्त्रेतायुगमुखे पुरा।
इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः॥ 14-4-17(92448)
`कारंधम इति ख्यातो बभूव जगतीपतिः।'
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा।
स हि सम्राडभूत्तेषां वृत्तेन च बलेन च॥ 14-4-18(92449)
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत्।
यज्ञशीलो धर्मरतिर्धृतिमान्संयतेन्द्रियः॥ 14-4-19(92450)
तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः।
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः॥ 14-4-20(92451)
कर्मणा मनसा वाचा दमेन प्रशमेन च।
मनांस्याराधयामास प्रजानां स महीपतिः॥ 14-4-21(92452)
य ईजे हयमेधानां शतेन विधिवत्प्रभुः।
याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः॥ 14-4-22(92453)
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया।
मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः।
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः॥ 14-4-23(92454)
स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत।
कारयामास शुभ्राणि भाजनानि सहस्रशः॥ 14-4-24(92455)
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे।
काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः॥ 14-4-25(92456)
ततः कुण्डानि पात्रीश्च पिठराण्यासंनानि च।
चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते॥ 14-4-26(92457)
तस्यैव च समीपे तु यज्ञवाटो बभूव ह।
ईजे तत्र स धर्मात्मा विदिवत्पृथिवीपतिः।
मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः॥ ॥ 14-4-27(92458)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि चतुर्थाऽध्यायः॥ 4 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-4-1 शुश्रूषे श्रोतुमिच्छामि॥ 7-4-21 पूर्वजानां महीपतिरिति क.थ.पाठः॥ 7-4-25 दैवं तत्र समासाद्येति क.थ.पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|